Loading...
ऋग्वेद मण्डल - 7 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 85/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्रावरुणौ छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् । घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥

    स्वर सहित पद पाठ

    पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णा॒य । जुह्व॑त् । घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥


    स्वर रहित मन्त्र

    पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् । घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥

    स्वर रहित पद पाठ

    पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् । घृतऽप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥ ७.८५.१

    ऋग्वेद - मण्डल » 7; सूक्त » 85; मन्त्र » 1
    अष्टक » 5; अध्याय » 6; वर्ग » 7; मन्त्र » 1

    पदार्थः -
    भो मनुष्याः ! यूयम् (अभीके) अत्र धर्म्ये युद्धे (इन्द्रस्य, वरुणस्य) इन्द्रवरुणसम्बन्धि च (सोमं जुह्वत्) सोमाख्यं हविर्ददतः इदं प्रार्थयध्वम् यत् (वाम्) युवयोः (अरक्षसम्) आसुरभावं त्यक्त्वा (घृतप्रतीकाम्) घृतसदृशस्निग्धया (मनीषाम्) बुद्ध्या प्रार्थनां कृत्वा (पुनीषे) पुनातु (उषसम्) उषसा (न) सदृश्या (देवीम्) दिव्यस्वरूपया (ता) तया बुद्ध्या (यामन्) युद्धाभिगमे (नः) अस्मान् (उरुष्यताम्) सेवेताम् ॥१॥

    इस भाष्य को एडिट करें
    Top