Loading...
ऋग्वेद मण्डल - 7 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - वायु: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥

    स्वर सहित पद पाठ

    प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रिः॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ । वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥


    स्वर रहित मन्त्र

    प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतास: । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥

    स्वर रहित पद पाठ

    प्र । वीरऽया । शुचयः । दद्रिः । वाम् । अध्वर्युऽभिः । मधुऽमन्तः । सुतासः । वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥ ७.९०.१

    ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 1
    अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 1

    पदार्थः -
    (वायो) हे वायुविद्यावेत्तः ! भवान् (सुतस्य) संस्कृतस्य (अन्धसः) अन्नस्य रसं (मदाय) आह्लादाय (पिब) पिबन्तु (नियुतः) स्वपदे नियुक्तः (अच्छ) सुविधया (वह) यथाकामं विहरतु तथा (याहि) केनाप्यप्रतिषिद्धो विचरतु, यतः (प्र) सम्यक् (वीरया) वीरतायै (वाम्) तुभ्यं (अध्वर्युभिः) वैदिकैः (मधुमन्तः) मधुराः (सुतासः) श्रोत्रतर्पणाः (शुचयः) शुद्धाः (दद्रिरे) उपदेशा दत्ताः ॥१॥

    इस भाष्य को एडिट करें
    Top