ऋग्वेद - मण्डल 7/ सूक्त 98/ मन्त्र 2
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि । उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥
स्वर सहित पद पाठयत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ । उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥
स्वर रहित मन्त्र
यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥
स्वर रहित पद पाठयत् । दधिषे । प्रऽदिवि । चारु । अन्नम् । दिवेऽदिवे । पीतिम् । इत् । अस्य । वक्षि । उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रऽस्थितान् । पाहि । सोमान् ॥ ७.९८.२
ऋग्वेद - मण्डल » 7; सूक्त » 98; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 23; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 23; मन्त्र » 2
पदार्थः -
(इन्द्र) हे विद्वन् ! (यत्) यतस्त्वं (दिवे दिवे) प्रतिदिनं (चारु, अन्नम्) शोभनमन्नं दधासि (प्रदिवि) गतदिनेष्वपि श्रेष्ठमेवाधाः (अस्य) सोमस्य (पीतिम् इत्) पानमेव (वक्षि) कामयसे (उत) तथा (हृदा, उत मनसा) हृदयेन मनसा च (जुषाणः) परमात्मानं सेवमानः (उशन्) सर्वजनहितमिच्छन् (प्रस्थितान्, सोमान् पाहि) उपस्थितानिमान् सोमपः रक्ष ॥२॥