Loading...
ऋग्वेद मण्डल - 8 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 15/ मन्त्र 1
    ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् । इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥

    स्वर सहित पद पाठ

    तम् । ऊँ॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥


    स्वर रहित मन्त्र

    तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम् । इन्द्रं गीर्भिस्तविषमा विवासत ॥

    स्वर रहित पद पाठ

    तम् । ऊँ इति । अभि । प्र । गायत । पुरुऽहूतम् । पुरुऽस्तुतम् । इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥ ८.१५.१

    ऋग्वेद - मण्डल » 8; सूक्त » 15; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 17; मन्त्र » 1

    पदार्थः -
    हे जनाः ! (पुरुहूतम्) पुरुभिराहूतम् (पुरुष्टुतम्) पुरुभिः स्तुतं च (तम्, इन्द्रम्, उ) तं परमात्मानमेव (अभिप्रगायत) अभितः प्रख्यापयत (गीर्भिः) वाग्भिः (तविषम्) महान्तम् (आविवासत) परिचरत ॥१॥

    इस भाष्य को एडिट करें
    Top