Loading...
ऋग्वेद मण्डल - 8 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 15/ मन्त्र 13
    ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् । इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥

    स्वर सहित पद पाठ

    अर॒म् । क्षया॑य । नः॒ । म॒हे । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒ । श॒ची॒ऽपति॑म् ॥


    स्वर रहित मन्त्र

    अरं क्षयाय नो महे विश्वा रूपाण्याविशन् । इन्द्रं जैत्राय हर्षया शचीपतिम् ॥

    स्वर रहित पद पाठ

    अरम् । क्षयाय । नः । महे । विश्वा । रूपाणि । आऽविशन् । इन्द्रम् । जैत्राय । हर्षय । शची३ऽपतिम् ॥ ८.१५.१३

    ऋग्वेद - मण्डल » 8; सूक्त » 15; मन्त्र » 13
    अष्टक » 6; अध्याय » 1; वर्ग » 19; मन्त्र » 3

    पदार्थः -
    (नः) यः अस्माकम् (महे, क्षयाय) महते निवासाय (अरम्) पर्याप्तः (विश्वा, रूपाणि) सर्वान् पदार्थान् (आविशन्) व्याप्तः (इन्द्रम्) तं परमात्मानम् (शचीपतिम्) शक्त्याधारम् (जैत्राय) जेतव्यलाभाय (हर्षय) स्तुहि ॥१३॥ इति पञ्चदशं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top