ऋग्वेद - मण्डल 8/ सूक्त 16/ मन्त्र 11
स न॒: पप्रि॑: पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इन्द्रो॒ विश्वा॒ अति॒ द्विष॑: ॥
स्वर सहित पद पाठसः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
स न: पप्रि: पारयाति स्वस्ति नावा पुरुहूतः । इन्द्रो विश्वा अति द्विष: ॥
स्वर रहित पद पाठसः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः । इन्द्रः । विश्वा । अति । द्विषः ॥ ८.१६.११
ऋग्वेद - मण्डल » 8; सूक्त » 16; मन्त्र » 11
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 5
पदार्थः -
(पप्रिः) पूरयिता (पुरुहूतः) बहुभिराहूतः (सः, इन्द्रः) स परमात्मा (नः) अस्मान् (विश्वाः, द्विषः) सर्वेभ्यो द्विड्भ्यः (नावा) तरणसाधनेन (अतिपारयाति) अतिपारयतु ॥११॥