Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्र: छन्दः - आर्षीगायत्री स्वरः - षड्जः

    इ॒दं व॑सो सु॒तमन्ध॒: पिबा॒ सुपू॑र्णमु॒दर॑म् । अना॑भयिन्ररि॒मा ते॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् । अना॑भयिन् । र॒रि॒म । ते॒ ॥


    स्वर रहित मन्त्र

    इदं वसो सुतमन्ध: पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥

    स्वर रहित पद पाठ

    इदम् । वसो इति । सुतम् । अन्धः । पिब । सुऽपूर्णम् । उदरम् । अनाभयिन् । ररिम । ते ॥ ८.२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 1
    अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 1

    पदार्थः -
    (वसो) हे बलैराच्छादयितः कर्मयोगिन् ! (इदं) इदं वीरेभ्यो विभज्यमानं (सुतं) सिद्धं (अन्धः) आह्लादकं रसं (सुपर्णं, उदरं) सुपूर्णमुदरं यावत् तावत् (पिबा) पिब (अनाभयिन्) हे निर्भीक वीर ! (ते) तुभ्यं (ररिमा) दद्मः ॥१॥

    इस भाष्य को एडिट करें
    Top