ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 1
आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः । स्थि॒रा चि॑न्नमयिष्णवः ॥
स्वर सहित पद पाठआ । ग॒न्ता॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ । स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥
स्वर रहित मन्त्र
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । स्थिरा चिन्नमयिष्णवः ॥
स्वर रहित पद पाठआ । गन्ता । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः । स्थिरा । चित् । नमयिष्णवः ॥ ८.२०.१
ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 1
विषयः - सम्प्रति परमात्मोपासनया लब्धैश्वर्याणां योद्धॄणां गुणास्तत्कर्तव्यं च वर्ण्यते।
पदार्थः -
(प्रस्थावानः) हे प्रस्थानशीलायोद्धारः ! (आगन्त) मद्रक्षायै आहूताः सन्त आगच्छत (मा, रिषण्यत) अनागमनेन मा हिंस्त (समन्यवः) यूयम् शत्रूपरिक्रोधसहिता तथा (स्थिरा, चित्, नमयिष्णवः) स्थावराणामपि कम्पयितारः अतः (मा, अपस्थात) मद्विरुद्धं मा स्थितिं कार्षिष्ट ॥१॥