ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 1
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑: । वाजे॑ चि॒त्रं ह॑वामहे ॥
स्वर सहित पद पाठव॒यम् । ऊँ॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यव: । वाजे चित्रं हवामहे ॥
स्वर रहित पद पाठवयम् । ऊँ इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वाजे । चित्रम् । हवामहे ॥ ८.२१.१
ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 1
विषयः - सम्प्रति योद्धृस्वामिनः माहात्म्यवर्णनपूर्वकसत्क्रिया वर्ण्यते।
पदार्थः -
(अपूर्व्य) हे प्रधानसेनापते ! (न) यथा (भरन्तः) बलहीना भारं धारयन्तः (कच्चित्, स्थूरम्) कंचित् बलपूर्णं पुरुषमाह्वयन्ति तथावत् (अवस्यवः) स्वयं रक्षितुमसमर्था रक्षामिच्छन्तः (वयम्) वयं प्राकृताः (वाजे, चित्रम्) संग्रामे विविधरूपं (त्वाम्, उ) त्वामेव (हवामहे) आह्वयामः ॥१॥