ऋग्वेद - मण्डल 8/ सूक्त 22/ मन्त्र 17
आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
स्वर सहित पद पाठआ । नः॒ । अश्व॑ऽवत् । अ॒श्वि॒ना॒ । व॒र्तिः । या॒सि॒ष्ट॒म् । म॒धु॒ऽपा॒त॒मा॒ । न॒रा॒ । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥
स्वर रहित मन्त्र
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा । गोमद्दस्रा हिरण्यवत् ॥
स्वर रहित पद पाठआ । नः । अश्वऽवत् । अश्विना । वर्तिः । यासिष्टम् । मधुऽपातमा । नरा । गोऽमत् । दस्रा । हिरण्यऽवत् ॥ ८.२२.१७
ऋग्वेद - मण्डल » 8; सूक्त » 22; मन्त्र » 17
अष्टक » 6; अध्याय » 2; वर्ग » 8; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 8; मन्त्र » 2
पदार्थः -
(मधुपातमा) हे अत्यन्तमधुपानशीलौ (नरा) नेतारौ (दस्रा) दर्शनीयौ (अश्विना) व्यापकगती ! (नः) अस्माकम् (वर्तिः) गृहम् (अश्वावत्) अश्वैर्युक्तम् (गोमत्) गवादियुक्तम् (हिरण्यवत्) सुवर्णमुद्राभूषणादियुक्तं संपाद्य (आयासिष्टम्) आयातम् ॥१७॥