Loading...
ऋग्वेद मण्डल - 8 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 2
    ऋषिः - देवातिथिः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ । कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒: स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥

    स्वर सहित पद पाठ

    यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ । कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥


    स्वर रहित मन्त्र

    यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा ब्रह्मभि: स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥

    स्वर रहित पद पाठ

    यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । ब्रह्मऽभिः । स्तोमऽवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥ ८.४.२

    ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 2
    अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 2

    पदार्थः -
    (इन्द्र) हे इन्द्र (यद्वा) यद्यपि (रुमे) केवलं शब्दस्य कर्तरि (रुशमे) दीप्तिमति (श्यावके) तमःप्रकृतिके (कृपे) समर्थे च (सचा) सह (मादयसे) सर्वान् हर्षयसि तथापीदानीम् (स्तोमवाहसः) तव भागं वाहयन्तः (कण्वासः) विद्वांसः (ब्रह्मभिः) स्तुतिभिः (त्वा) त्वां (आयच्छन्ति) आगमयन्ति (इन्द्र) हे इन्द्र ! (आगहि) आयाहि ॥२॥

    इस भाष्य को एडिट करें
    Top