ऋग्वेद - मण्डल 9/ सूक्त 10/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः । भरा॑सः का॒रिणा॑मिव ॥
स्वर सहित पद पाठहि॒न्वा॒नासः॑ । रथाः॑ऽइव । द॒ध॒न्वि॒रे । गभ॑स्त्योः । भरा॑सः । का॒रिणा॑म्ऽइव ॥
स्वर रहित मन्त्र
हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः कारिणामिव ॥
स्वर रहित पद पाठहिन्वानासः । रथाःऽइव । दधन्विरे । गभस्त्योः । भरासः । कारिणाम्ऽइव ॥ ९.१०.२
ऋग्वेद - मण्डल » 9; सूक्त » 10; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 34; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 34; मन्त्र » 2
पदार्थः -
सः (रथाः, इव) विद्युदिव (गभस्त्योः, दधन्विरे) स्वचमत्कृतरश्मीनां धारकः (हिन्वानासः) सततगतिशीलोऽस्ति तथा च (कारिणाम्, इव) कर्मयोगिन इव (भरासः) शश्वत्सत्कर्मभारं वोढुमुद्यतोऽस्ति ॥२॥