ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 2
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ न कृत्व्य॑: ॥
स्वर सहित पद पाठयः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः । इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥
स्वर रहित मन्त्र
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्य: ॥
स्वर रहित पद पाठयः । धारया । पावकया । परिऽप्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥ ९.१०१.२
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 2
पदार्थः -
(यः) यः परमात्मा (पावकया, धारया) अपवित्रतापसारक- स्वसुधामयवृष्ट्या (परिप्रस्यन्दते) सर्वत्र परिपूर्णः (सुतः) स्वसच्चिदानन्दस्वरूपेण देदीप्यमानश्च। (कृत्व्यः) गतिशीलः सः (इन्दुः) सर्वव्यापकः परमात्मा (अश्वः, न) विद्युदिव सर्वत्र स्वसत्तया परिपूर्णः ॥२॥