Loading...
ऋग्वेद मण्डल - 9 के सूक्त 106 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 106/ मन्त्र 1
    ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः । श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विद॑: ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । अच्छ॑ । सु॒ताः । इ॒मे । वृष॑णम् । य॒न्तु॒ । हर॑यः । श्रु॒ष्टी । जा॒तासः॑ । इन्द॑वः । स्वः॒ऽविदः॑ ॥


    स्वर रहित मन्त्र

    इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टी जातास इन्दवः स्वर्विद: ॥

    स्वर रहित पद पाठ

    इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टी । जातासः । इन्दवः । स्वःऽविदः ॥ ९.१०६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 106; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 9; मन्त्र » 1

    पदार्थः -
    (स्वर्विदः) ज्ञानादिगुणाः (इन्दवः) ये प्रकाशस्वरूपाः (जातासः) सर्वत्र विद्यमानाः (सुताः) उपासनया साक्षात्त्वं प्राप्ताः (हरयः) दुःखस्य   हर्तारः (इमे) इमे परमात्मगुणाः (वृषणम्) कर्मद्वारा उद्योगवर्षुकं (इन्द्रम्) कर्मयोगिनं (श्रुष्टी) सत्वरं (अच्छ, यन्तु) साधु लभन्ताम् ॥१॥

    इस भाष्य को एडिट करें
    Top