ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उपा॑स्मै गायता नर॒: पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥
स्वर सहित पद पाठउप॑ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव॑मानाय । इन्द॑वे । अ॒भि । दे॒वान् । इय॑क्षते ॥
स्वर रहित मन्त्र
उपास्मै गायता नर: पवमानायेन्दवे । अभि देवाँ इयक्षते ॥
स्वर रहित पद पाठउप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥ ९.११.१
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 1
विषयः - सम्प्रति उक्तपरमात्मन उपासनाप्रकारः कथ्यते।
पदार्थः -
(नरः) हे यज्ञनेतारः ! यूयं (पवमानाय) सर्वेषां पावयित्रे (इन्दवे) परमैश्वर्यवते (उपास्मै) अस्मै परमात्मने तदर्थमेव (गायत) वेदवाग्भिः स्तुत यः (अभि देवाँ इयक्षते) यज्ञादिकर्मसु विदुषः सङ्गमयितुमिच्छति ॥१॥