ऋग्वेद - मण्डल 9/ सूक्त 12/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने । इन्द्रा॑य॒ मधु॑मत्तमाः ॥
स्वर सहित पद पाठसोमाः॑ । अ॒सृ॒ग्र॒म् । इन्द॑वः । सु॒ताः । ऋ॒तस्य॑ । सद॑ने । इन्द्रा॑य । मधु॑मत्ऽतमाः ॥
स्वर रहित मन्त्र
सोमा असृग्रमिन्दवः सुता ऋतस्य सादने । इन्द्राय मधुमत्तमाः ॥
स्वर रहित पद पाठसोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । सदने । इन्द्राय । मधुमत्ऽतमाः ॥ ९.१२.१
ऋग्वेद - मण्डल » 9; सूक्त » 12; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 38; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 38; मन्त्र » 1
विषयः - अथ उक्तपरमात्मानं यज्ञादिकर्मणः कर्तृत्वेन वर्णयति।
पदार्थः -
(इन्द्राय) जीवात्मने (मधुमत्तमाः) यो हि आनन्दमयः (ऋतस्य) यज्ञस्य (सादने) स्थितौ (सुताः) उपास्यो यः सः (इन्दवः) प्रकाशमयः (सोमाः) सौम्यस्वभावश्चास्ति (असृग्रम्) तेनैवेदं जगत्तेने ॥१॥