ऋग्वेद - मण्डल 9/ सूक्त 13/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
सोम॑: पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥
स्वर सहित पद पाठसोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः । वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥
स्वर रहित मन्त्र
सोम: पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥
स्वर रहित पद पाठसोमः । पुनानः । अर्षति । सहस्रऽधारः । अतिऽअविः । वायोः । इन्द्रस्य । निःऽकृतम् ॥ ९.१३.१
ऋग्वेद - मण्डल » 9; सूक्त » 13; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषयः - अधुना परमात्मनः यज्ञादिकर्मप्रियता दानप्रियता च वर्ण्यते।
पदार्थः -
(सोमः) चराचरजगदुत्पादकः परमात्मा (पुनानः अर्षति) सर्वं पावयन् सर्वत्र व्याप्नोति तथा च (सहस्रधारः) सहस्राणि वस्तूनि धारयति (अत्यविः) अत्यन्तरक्षकोऽस्ति (वायोः) कर्मशीलस्य (इन्द्रस्य) ज्ञानशीलस्य च विदुषः (निष्कृतम्) उद्धारकोऽस्ति ॥१॥