Loading...
ऋग्वेद मण्डल - 9 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 15/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑: । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥

    स्वर सहित पद पाठ

    ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ । गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥


    स्वर रहित मन्त्र

    एष धिया यात्यण्व्या शूरो रथेभिराशुभि: । गच्छन्निन्द्रस्य निष्कृतम् ॥

    स्वर रहित पद पाठ

    एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुऽभिः । गच्छन् । इन्द्रस्य । निःऽकृतम् ॥ ९.१५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 15; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 1

    पदार्थः -
    (एषः) अयं परमात्मा (धिया अण्व्या) सूक्ष्मया स्वधारणशक्त्या (याति) सर्वत्र प्राप्नोति (रथेभिः) शक्तिभिः (आशुभिः) शीघ्रगाभिः (इन्द्रस्य निष्कृतम्) जीवान् उद्धर्तुम् (शूरः) अविद्यादिदोषान् शमयन् (गच्छन्) जगन्निर्माणरूपकर्म करोति ॥१॥

    इस भाष्य को एडिट करें
    Top