Loading...
ऋग्वेद मण्डल - 9 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 16/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । सो॒तारः॑ । ओ॒ण्योः॑ । रस॑म् । मदा॑य । घृष्व॑ये । सर्गः॑ । न । त॒क्ति॒ । एत॑शः ॥


    स्वर रहित मन्त्र

    प्र ते सोतार ओण्यो३ रसं मदाय घृष्वये । सर्गो न तक्त्येतशः ॥

    स्वर रहित पद पाठ

    प्र । ते । सोतारः । ओण्योः । रसम् । मदाय । घृष्वये । सर्गः । न । तक्ति । एतशः ॥ ९.१६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 16; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 1

    पदार्थः -
    (प्रसोतारः) भो जिज्ञासवः ! (ते) युष्माकम् (मदाय) आनन्दाय (घृष्वये) शत्रुनिवर्हणाय (ओण्योः) द्यावापृथिव्योर्मध्ये (रसम्) सौम्यस्वभावप्रदाता रसः भवदर्थं (सर्गः) सृष्टः यः (एतशः न तक्ति) विद्युदिव तीक्ष्णतां ददाति ॥१॥

    इस भाष्य को एडिट करें
    Top