ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शव॑: ॥
स्वर सहित पद पाठप्र । नि॒मेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः । सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥
स्वर रहित मन्त्र
प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । सोमा असृग्रमाशव: ॥
स्वर रहित पद पाठप्र । निमेनऽइव । सिन्धवः । घ्नन्तः । वृत्राणि । भूर्णयः । सोमाः । असृग्रम् । आशवः ॥ ९.१७.१
ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 1
विषयः - अधुना उपासकस्य हृदये परमात्मप्रकाशः कथ्यते।
पदार्थः -
(सोमाः) पूर्वोक्तः सौम्यस्वभाववान् परमात्मा (वृत्राणि घ्नन्तः) अज्ञानानि नाशयन् (भूर्णयः) द्रुततरगमनशीलः (आशवः) सर्वव्यापकः (सिन्धवः प्रनिम्नेन इव) यथा नद्यः निम्नाभिमुखं गच्छन्ति तथैव सः (असृग्रम्) भक्तहृदयेषु प्रकाशते ॥१॥