ऋग्वेद - मण्डल 9/ सूक्त 20/ मन्त्र 7
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
स्वर सहित पद पाठक्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम् ॥
स्वर रहित पद पाठक्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सुऽवीर्यम् ॥ ९.२०.७
ऋग्वेद - मण्डल » 9; सूक्त » 20; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 7
पदार्थः -
(सोम) हे परमात्मन् ! (क्रीळुः) भवान् क्रीडनशीलः (मखः न मंहयुः) क्रतुरिव दातास्ति (पवित्रम् गच्छसि) सत्कर्माणं जनं समभिगच्छति (स्तोत्रे सुवीर्यम् दधत्) वेदादिशास्त्रेषु स्वबलं समर्पयति च ॥७॥ विंशतितमं सूक्तं दशमो वर्गश्च समाप्तः ॥