ऋग्वेद - मण्डल 9/ सूक्त 25/ मन्त्र 2
ऋषिः - दृळहच्युतः आगस्त्यः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् । धर्म॑णा वा॒युमा वि॑श ॥
स्वर सहित पद पाठपव॑मान । धि॒या । हि॒तः । अ॒भि । योनि॑म् । कनि॑क्रदत् । धर्म॑णा । वा॒युम् । आ । वि॒श॒ ॥
स्वर रहित मन्त्र
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् । धर्मणा वायुमा विश ॥
स्वर रहित पद पाठपवमान । धिया । हितः । अभि । योनिम् । कनिक्रदत् । धर्मणा । वायुम् । आ । विश ॥ ९.२५.२
ऋग्वेद - मण्डल » 9; सूक्त » 25; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 15; मन्त्र » 2
पदार्थः -
(पवमान) हे सर्वेषां पालक भगवन् ! त्वं (धिया हितः) बुद्ध्या धृतः (अभि योनिम्) हृदयरूपे स्थाने (कनिक्रदत्) साधूपदिशन् (आविश) प्रविश अथ च (धर्मणा) अपहतपाप्मादिभिर्धर्मैः (वायुम्) कर्मयोगिविदुषो हृदयम् आगत्य प्रविश ॥२॥