Loading...
ऋग्वेद मण्डल - 9 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 26/ मन्त्र 1
    ऋषिः - इध्मवाहो दाळर्हच्युतः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥

    स्वर सहित पद पाठ

    तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पस्थे॑ । अदि॑तेः । अधि॑ । विप्रा॑सः । अण्व्या॑ । धि॒या ॥


    स्वर रहित मन्त्र

    तममृक्षन्त वाजिनमुपस्थे अदितेरधि । विप्रासो अण्व्या धिया ॥

    स्वर रहित पद पाठ

    तम् । अमृक्षन्त । वाजिनम् । उपस्थे । अदितेः । अधि । विप्रासः । अण्व्या । धिया ॥ ९.२६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 26; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 1

    पदार्थः -
    (विप्रासः) धारणाध्यानादिसाधनैः शुद्धबुद्धयोजनाः (अण्व्या) सूक्ष्मया (धिया) बुद्ध्या (अदितेः अधि) सत्यादिज्योतिषामधिकरणरूपं (तम् वाजिनम्) तं बलस्वरूपं परमात्मानं (उपस्थे) स्वीयान्तःकरणे (अमृक्षन्त) शुद्धज्ञानविषयीकुर्वन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top