ऋग्वेद - मण्डल 9/ सूक्त 28/ मन्त्र 1
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पति॑: । अव्यो॒ वारं॒ वि धा॑वति ॥
स्वर सहित पद पाठए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥
स्वर रहित मन्त्र
एष वाजी हितो नृभिर्विश्वविन्मनसस्पति: । अव्यो वारं वि धावति ॥
स्वर रहित पद पाठएषः । वाजी । हितः । नृऽभिः । विश्वऽवित् । मनसः । पतिः । अव्यः । वारम् । वि । धावति ॥ ९.२८.१
ऋग्वेद - मण्डल » 9; सूक्त » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 18; मन्त्र » 1
विषयः - अथेश्वरोऽज्ञानस्य निवर्त्तकत्वरूपेण वर्ण्यते।
पदार्थः -
(एषः) अयं परमात्मा (वाजी) प्रबलः (नृभिः हितः) जिज्ञासुभिः स्वहृदये स्थापितः (विश्ववित्) सर्वज्ञः (मनसः पतिः) मनोऽधिपतिः (अव्यः) अविनाशी च (वारम् विधावति) स्वभक्तहृदयमधिवसति ॥१॥