Loading...
ऋग्वेद मण्डल - 9 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 29/ मन्त्र 1
    ऋषिः - नृमेधः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑: सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥

    स्वर सहित पद पाठ

    प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा । दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥


    स्वर रहित मन्त्र

    प्रास्य धारा अक्षरन्वृष्ण: सुतस्यौजसा । देवाँ अनु प्रभूषतः ॥

    स्वर रहित पद पाठ

    प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा । देवान् । अनु । प्रऽभूषतः ॥ ९.२९.१

    ऋग्वेद - मण्डल » 9; सूक्त » 29; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 19; मन्त्र » 1

    पदार्थः -
    (प्रभूषतः) प्रभुत्वमिच्छन्तः पुरुषस्येदं कर्तव्यं यत्सः (देवान् अनु) विदुषामनुयायी स्यात् किं च (सुतस्य ओजसा) नित्यशुद्धबुद्धमुक्तस्य परमात्मनस्तेजसा आत्मानं तेजस्विनं विदध्यात् (वृष्णः अस्य धाराः) सर्वकामप्रदस्य परमात्मनः कृपाधारा (अक्षरन्) आत्मानमभिषिञ्चेत् ॥१॥

    इस भाष्य को एडिट करें
    Top