Loading...
ऋग्वेद मण्डल - 9 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 30/ मन्त्र 1
    ऋषिः - बिन्दुः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् । पु॒ना॒नो वाच॑मिष्यति ॥

    स्वर सहित पद पाठ

    प्र । धाराः॑ । अ॒स्य॒ । शु॒ष्मिणः॑ । वृथा॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒ति॒ ॥


    स्वर रहित मन्त्र

    प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । पुनानो वाचमिष्यति ॥

    स्वर रहित पद पाठ

    प्र । धाराः । अस्य । शुष्मिणः । वृथा । पवित्रे । अक्षरन् । पुनानः । वाचम् । इष्यति ॥ ९.३०.१

    ऋग्वेद - मण्डल » 9; सूक्त » 30; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 20; मन्त्र » 1

    पदार्थः -
    (प्र पुनानः) आत्मानं पवित्रयन् यः पुरुषः (वाचम् इष्यति) वाग्रूपां सरस्वतीमिच्छति (अस्य शुष्मिणः) अस्मै बलिने (पवित्रे) पात्रे (वृथा) मुधैव सोमरसस्य (धाराः) धाराः पतन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top