ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 1
प्र सोमा॑सः स्वा॒ध्य१॒॑: पव॑मानासो अक्रमुः । र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥
स्वर सहित पद पाठप्र । सोमा॑सः । स्वा॒ध्यः॑ । पव॑मानासः । अ॒क्र॒मुः॒ । र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥
स्वर रहित मन्त्र
प्र सोमासः स्वाध्य१: पवमानासो अक्रमुः । रयिं कृण्वन्ति चेतनम् ॥
स्वर रहित पद पाठप्र । सोमासः । स्वाध्यः । पवमानासः । अक्रमुः । रयिम् । कृण्वन्ति । चेतनम् ॥ ९.३१.१
ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 1
विषयः - अथ शूरवीरगुणा वर्ण्यन्ते।
पदार्थः -
(सोमासः) शूरवीराः (स्वाध्यः) उच्चोद्देश्याः (पवमानासः) वीर्य्येण भुवनं पवित्रयन्तः (प्राक्रमुः) अन्यायकारिणः शत्रून् आक्राम्यन्ति किञ्च उक्ताक्रमणेन (रयिम्) स्वमैश्वर्य्यं (चेतनम्) लोकोत्तरं (कृण्वन्ति) विदधते ॥१॥