Loading...
ऋग्वेद मण्डल - 9 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 36/ मन्त्र 2
    ऋषिः - प्रभुवसुः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    स वह्नि॑: सोम॒ जागृ॑वि॒: पव॑स्व देव॒वीरति॑ । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

    स्वर सहित पद पाठ

    सः । वह्निः॑ । सो॒म॒ । जागृ॑विः । पव॑स्व । दे॒व॒ऽवीः । अति॑ । अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥


    स्वर रहित मन्त्र

    स वह्नि: सोम जागृवि: पवस्व देववीरति । अभि कोशं मधुश्चुतम् ॥

    स्वर रहित पद पाठ

    सः । वह्निः । सोम । जागृविः । पवस्व । देवऽवीः । अति । अभि । कोशम् । मधुऽश्चुतम् ॥ ९.३६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 36; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 26; मन्त्र » 2

    पदार्थः -
    (सोम) हे भगवन् ! (सः) पूर्वोक्तगुणवान् त्वं (वह्निः) सर्वप्रेरकः (जागृविः) नित्यः शुद्धो बुद्धो मुक्तस्वरूपश्चासि किञ्च (देववीः अति) सद्गुणसम्पन्नान् विदुषोऽतिकामयसे (मधुश्चुतम् कोशम् अभिपवस्व) त्वमानन्दप्रवाहं स्यन्दय ॥२॥

    इस भाष्य को एडिट करें
    Top