Loading...
ऋग्वेद मण्डल - 9 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 37/ मन्त्र 1
    ऋषिः - रहूगणः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    स सु॒तः पी॒तये॒ वृषा॒ सोम॑: प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥

    स्वर सहित पद पाठ

    सः । सु॒तः । पी॒तये॑ । वृषा॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ । वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥


    स्वर रहित मन्त्र

    स सुतः पीतये वृषा सोम: पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥

    स्वर रहित पद पाठ

    सः । सुतः । पीतये । वृषा । सोमः । पवित्रे । अर्षति । विऽघ्नन् । रक्षांसि । देवऽयुः ॥ ९.३७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 37; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 1

    पदार्थः -
    (सुतः) स्वयम्भूः (वृषा) सर्वकामप्रदः (सः सोमः) सः परमात्मा (रक्षांसि विघ्नन्) राक्षसान् विनाशयन् (देवयुः) देवान् इच्छन् च (पीतये) विदुषां तृप्तये (पवित्रे अर्षति) तेषामन्तःकरणेषु विराजते ॥१॥

    इस भाष्य को एडिट करें
    Top