ऋग्वेद - मण्डल 9/ सूक्त 38/ मन्त्र 1
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥
स्वर सहित पद पाठए॒षः । ऊँ॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥
स्वर रहित मन्त्र
एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति । गच्छन्वाजं सहस्रिणम् ॥
स्वर रहित पद पाठएषः । ऊँ इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति । गच्छन् । वाजम् । सहस्रिणम् ॥ ९.३८.१
ऋग्वेद - मण्डल » 9; सूक्त » 38; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 28; मन्त्र » 1
विषयः - अथ प्रकारान्तरेण ईश्वरस्य गुणा उपदिश्यन्ते।
पदार्थः -
(एषः स्यः) अयं परमात्मा (रथः) गतिशीलः (वृषा) सर्वाभिलाषसाधकः (अव्यः) सर्वस्य रक्षकः (सहस्रिणम् वाजम्) अनन्ताः शक्तीः (गच्छन्) सम्पादयन् (वारेभिः अर्षति) माननीयैर्विबुधैः प्रकाशितो भवति ॥१॥