ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 10
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ वस्य॑सस्कृधि ॥
स्वर सहित पद पाठर॒यिम् । नः॒ । चि॒त्रम् । अ॒श्विन॑म् । इन्दो॒ इति॑ । वि॒श्वऽआ॑युम् । आ । भ॒र॒ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥
स्वर रहित मन्त्र
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥
स्वर रहित पद पाठरयिम् । नः । चित्रम् । अश्विनम् । इन्दो इति । विश्वऽआयुम् । आ । भर । अथ । नः । वस्यसः । कृधि ॥ ९.४.१०
ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 10
अष्टक » 6; अध्याय » 7; वर्ग » 23; मन्त्र » 5
अष्टक » 6; अध्याय » 7; वर्ग » 23; मन्त्र » 5
पदार्थः -
(इन्दो) हे सर्वैश्वर्यसम्पन्न भगवन् ! (नः) अस्मान् (चित्रम्) अनेकविधं (अश्विनम्) सर्वव्याप्यैश्वर्यं सम्पाद्य समर्द्धयतु (अथ) तथा च (विश्वम्, आयुम्) सर्वविधमायुः (रयिम्) धनं च सम्पाद्य समर्द्धयतु ॥१०॥चतुर्थं सूक्तं त्रयोविंशो वर्गश्च समाप्तः ॥