ऋग्वेद - मण्डल 9/ सूक्त 42/ मन्त्र 1
ऋषिः - मेध्यातिथिः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् । वसा॑नो॒ गा अ॒पो हरि॑: ॥
स्वर सहित पद पाठज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् । वसा॑नः । गाः । अ॒पः । हरिः॑ ॥
स्वर रहित मन्त्र
जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् । वसानो गा अपो हरि: ॥
स्वर रहित पद पाठजनयन् । रोचना । दिवः । जनयन् । अप्ऽसु । सूर्यम् । वसानः । गाः । अपः । हरिः ॥ ९.४२.१
ऋग्वेद - मण्डल » 9; सूक्त » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 1
विषयः - अथ परमात्मनः सूर्यादीनां कर्तृत्वं वर्ण्यते |
पदार्थः -
(हरिः) किल्विषविनाशकः स परमात्मा (दिवः रोचना जनयन्) आकाशे प्रकाशितानि ग्रहनक्षत्रादीनि जनयन् (अप्सु सूर्यम् जनयन्) अन्तरिक्षे सूर्यं समुत्पादयंश्च (गाः अपः) भूमिं द्यावं च (वसानः) आच्छादयन् सर्वत्र व्याप्तो भवति ॥१॥