Loading...
ऋग्वेद मण्डल - 9 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 1
    ऋषिः - मेध्यातिथिः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥

    स्वर सहित पद पाठ

    यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः । तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । तं गीर्भिर्वासयामसि ॥

    स्वर रहित पद पाठ

    यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हर्यतः । तम् । गीःऽभिः । वासयामसि ॥ ९.४३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 1

    पदार्थः -
    (हर्यतः यः) अतिकमनीयो यः परमात्मा (अत्यः इव) विद्युदिव दुर्ग्राह्यः (गोभिः मदाय मृज्यते) यश्च ब्रह्मानन्दप्राप्तय इन्द्रियैः साक्षात्क्रियते (तम्) तं परमात्मानं (गीर्भिः) स्तुतिभिः (वासयामसि) हृदयाधिष्ठितं कुर्मः ॥१॥

    इस भाष्य को एडिट करें
    Top