ऋग्वेद - मण्डल 9/ सूक्त 44/ मन्त्र 1
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्य॑: ॥
स्वर सहित पद पाठप्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । तने॑ । ऊ॒र्मिम् । न । बिभ्र॑त् । अ॒र्ष॒सि॒ । अ॒भि । दे॒वान् । अ॒यास्यः॑ ॥
स्वर रहित मन्त्र
प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । अभि देवाँ अयास्य: ॥
स्वर रहित पद पाठप्र । नः । इन्दो इति । महे । तने । ऊर्मिम् । न । बिभ्रत् । अर्षसि । अभि । देवान् । अयास्यः ॥ ९.४४.१
ऋग्वेद - मण्डल » 9; सूक्त » 44; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 1; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 1; मन्त्र » 1
विषयः - अथ परमात्मनः मेधाविबुद्धिविषयत्वं वर्ण्यते।
पदार्थः -
(इन्दो) हे परमात्मन् ! (ऊर्मिम् बिभ्रत्) भवान् आनन्दतरङ्गान् धारयन् (महे तने) महता ऐश्वर्याय (नः न प्रार्षसि) अस्मान् द्रुतं प्राप्नोति (अभिदेवान्) कर्मयोगिनः (अयास्यः) विना प्रयत्नं सङ्गच्छति ॥१॥