ऋग्वेद - मण्डल 9/ सूक्त 46/ मन्त्र 1
असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒: कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑: ॥
स्वर सहित पद पाठअसृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥
स्वर रहित मन्त्र
असृग्रन्देववीतयेऽत्यास: कृत्व्या इव । क्षरन्तः पर्वतावृध: ॥
स्वर रहित पद पाठअसृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव । क्षरन्तः । पर्वतऽवृधः ॥ ९.४६.१
ऋग्वेद - मण्डल » 9; सूक्त » 46; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 1
विषयः - अथ पदार्थविद्याविदां विदुषां गुणा उपदिश्यन्ते।
पदार्थः -
तेन परमात्मना (पर्वतावृधः) ज्ञानेन कर्मणा च वृद्धाः (क्षरन्तः) उपदेशं ददानाः (कृत्व्याः इव) कर्मयोगिनु इव (अत्यासः) सर्वस्मिन् कर्मणि व्यापका विद्वांसः (देववीतये) देवानां तर्पकाय यज्ञाय (असृग्रन्) सृज्यन्ते ॥१॥