ऋग्वेद - मण्डल 9/ सूक्त 51/ मन्त्र 1
अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥
स्वर सहित पद पाठअध्व॑र्यो॒ इति॑ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ । पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥
स्वर रहित मन्त्र
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज । पुनीहीन्द्राय पातवे ॥
स्वर रहित पद पाठअध्वर्यो इति । अद्रिऽभिः । सुतम् । सोमम् । पवित्रे । आ । सृज । पुनीहि । इन्द्राय । पातवे ॥ ९.५१.१
ऋग्वेद - मण्डल » 9; सूक्त » 51; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 8; मन्त्र » 1
विषयः - अथ सौम्यस्वभावोत्पादनं वर्ण्यते।
पदार्थः -
(अध्वर्यो) हे अध्वर्युगणाः ! (सोमम्) परमात्मानं (अद्रिभिः सुतः) स्वेन्द्रियद्वारेण ज्ञानविषयं (सृज) कुर्वन्तु (इन्द्राय पातवे) जीवात्मतर्पणाय (पवित्रे पुनीहि) स्वकीयमन्तःकरणं पवित्रं कुर्वन्तु ॥१॥