ऋग्वेद - मण्डल 9/ सूक्त 62/ मन्त्र 30
पव॑मान ऋ॒तः क॒विः सोम॑: प॒वित्र॒मास॑दत् । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
स्वर सहित पद पाठपव॑मानः । ऋ॒तः । क॒विः । सोमः॑ । प॒वित्र॑म् । आ । अ॒स॒द॒त् । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
पवमान ऋतः कविः सोम: पवित्रमासदत् । दधत्स्तोत्रे सुवीर्यम् ॥
स्वर रहित पद पाठपवमानः । ऋतः । कविः । सोमः । पवित्रम् । आ । असदत् । दधत् । स्तोत्रे । सुऽवीर्यम् ॥ ९.६२.३०
ऋग्वेद - मण्डल » 9; सूक्त » 62; मन्त्र » 30
अष्टक » 7; अध्याय » 1; वर्ग » 29; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 29; मन्त्र » 5
पदार्थः -
(पवमान) हे जगद्रक्षक ! भवान् (ऋतः) सत्यशीलः (कविः) पण्डितः (सोमः) उदारचित्तोऽस्ति। अथ च (स्तोत्रे सुवीर्यं दधत्) स्वीयस्तोतॄन् अनुयायिवर्गांश्च पराक्रमशीलान् कुर्वन् (पवित्रे आसदत्) सत्कर्मी करोति सुरक्षति च ॥३०॥ इति द्विषष्टितमं सूक्तमेकोनत्रिंशो वर्गश्च समाप्तः।