ऋग्वेद - मण्डल 9/ सूक्त 64/ मन्त्र 30
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥
स्वर सहित पद पाठऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः । पव॑स्व । सूर्यः॑ । दृ॒शे ॥
स्वर रहित मन्त्र
ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः । पवस्व सूर्यो दृशे ॥
स्वर रहित पद पाठऋधक् । सोम । स्वस्तये । सम्ऽजग्मानः । दिवः । कविः । पवस्व । सूर्यः । दृशे ॥ ९.६४.३०
ऋग्वेद - मण्डल » 9; सूक्त » 64; मन्त्र » 30
अष्टक » 7; अध्याय » 1; वर्ग » 41; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 41; मन्त्र » 5
पदार्थः -
(ऋधक् सोम) हे अद्वितीय जगदीश्वर ! भवान् (सञ्जग्मानः) सर्वत्र परिपूर्णोऽस्ति। तथा (दिवः) प्रकाशस्वरूपोऽस्ति। अथ च (कविः) सर्वज्ञो भवान् (स्वस्तये) कल्याणाय (पवस्व) मां पवित्रयतु। (सूर्यः) सरतीति सूर्यः हे परमात्मन् ! (दृशे) ज्ञानवर्धनाय ममान्तःकरणे विराजितो भवतु ॥३०॥ इति चतुःषष्टितमं सूक्तमेकचत्वारिंशत्तमो वर्गश्च समाप्तः ॥ इति श्रीमदार्यमुनिनोपनिबद्धे क्संहिताभाष्ये नवममण्डले सप्तमाष्टके प्रथमोऽध्यायः समाप्तः ॥