ऋग्वेद - मण्डल 9/ सूक्त 65/ मन्त्र 30
ऋषिः - भृगुर्वारुणिर्जमदग्निर्वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा । पान्त॒मा पु॑रु॒स्पृह॑म् ॥
स्वर सहित पद पाठआ । र॒यिम् । आ । सु॒ऽचे॒तुन॑म् । आ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त॒नूषु॑ । आ । पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥
स्वर रहित मन्त्र
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा । पान्तमा पुरुस्पृहम् ॥
स्वर रहित पद पाठआ । रयिम् । आ । सुऽचेतुनम् । आ । सुक्रतो इति सुऽक्रतो । तनूषु । आ । पान्तम् । आ । पुरुऽस्पृहम् ॥ ९.६५.३०
ऋग्वेद - मण्डल » 9; सूक्त » 65; मन्त्र » 30
अष्टक » 7; अध्याय » 2; वर्ग » 6; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 6; मन्त्र » 5
पदार्थः -
(सुक्रतो) हे सर्वयज्ञाधिपते परमेश्वर ! भवान् (रयिम्) धनं तथा (सुचेतुनम्) शुभज्ञानं (तनूषु) मत्सन्ततिषु (आ) आ ददातु। भवान् (पुरुस्पृहम्) सर्वेषामुपास्यदेवोऽस्ति। तथा (पान्तं) सर्वपविता चास्ति। (सुक्रतो) हे शुभकर्मिन् ! भवानेव मयोपासनीयोऽस्ति ॥३०॥ इति पञ्चषष्टितमं सूक्तं षष्ठो वर्गश्च समाप्तः ॥