ऋग्वेद - मण्डल 9/ सूक्त 67/ मन्त्र 32
ऋषिः - पवित्रो वसिष्ठो वोभौः वा
देवता - पवमान्यध्येतृस्तुतिः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
स्वर सहित पद पाठपा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः॒ । सम्ऽभृ॑तम् । रस॑म् । तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥
स्वर रहित मन्त्र
पावमानीर्यो अध्येत्यृषिभि: सम्भृतं रसम् । तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥
स्वर रहित पद पाठपावमानीः । यः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् । तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥ ९.६७.३२
ऋग्वेद - मण्डल » 9; सूक्त » 67; मन्त्र » 32
अष्टक » 7; अध्याय » 2; वर्ग » 18; मन्त्र » 7
अष्टक » 7; अध्याय » 2; वर्ग » 18; मन्त्र » 7
पदार्थः -
(यः) यो जनः (पावमानीः) जगदीश्वरस्तवनरूपा ऋचः (अध्येति) अधीते (तस्मै) तस्मै (ऋषिभिः) मन्त्रदर्शिभिः (सम्भृतम्) सम्पादितं (रसम्) रसं तथा (क्षीरं सर्पिर्मधूदकम्) दुग्धघृतजलानि (सरस्वती) ब्रह्मविद्या (दुहे) दोग्धि ॥३२॥ इति सप्तषष्टितमं सूक्तमष्टादशो वर्गश्च समाप्तः ॥