Loading...
ऋग्वेद मण्डल - 9 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 7/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रिय॑: । वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥

    स्वर सहित पद पाठ

    असृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रिय॑ह् । वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥


    स्वर रहित मन्त्र

    असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रिय: । विदाना अस्य योजनम् ॥

    स्वर रहित पद पाठ

    असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुऽश्रियह् । विदानाः । अस्य । योजनम् ॥ ९.७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 7; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 1

    पदार्थः -
    (इन्दवः) विज्ञानिनः (अस्य) अस्य परमात्मनो हि (योजनम्) सम्बन्धम् (विदाना) जानन्तः (सुश्रियः) विविधशोभा दधति (ऋतस्य) तथा च सत्यस्यास्य परमात्मनः (धर्मन्) धर्मणि तिष्ठन्तः (असृग्रम्) सुगुणान् लभन्ते ॥१॥

    इस भाष्य को एडिट करें
    Top