Loading...
ऋग्वेद मण्डल - 9 के सूक्त 70 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 70/ मन्त्र 1
    ऋषिः - रेनुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥

    स्वर सहित पद पाठ

    त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि । च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥


    स्वर रहित मन्त्र

    त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥

    स्वर रहित पद पाठ

    त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आऽशिरम् । पूर्व्ये । विऽओमनि । चत्वारि । अन्या । भुवनानि । निःऽनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥ ९.७०.१

    ऋग्वेद - मण्डल » 9; सूक्त » 70; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 23; मन्त्र » 1

    पदार्थः -
    (पूर्व्ये व्योमनि) महदाकाशे (अन्या) प्रकृतेरन्यानि (चत्वारि भुवनानि) चत्वारि तत्त्वानि (यत्) यानि (चारूणि) सुन्दराणि सन्ति तानि (निर्णिजे) शुद्धये (ऋतैः) प्रकृतेः सत्यद्वारेण (चक्रे) परमात्मना निर्मितानि सन्ति। (अस्मे) एतदर्थं (धेनवः) वेदवाचः (त्रिः सप्त) अहङ्कारत इन्द्रियपर्यन्तमेकविंशतितत्त्वैः (दुदुह्रे) दुहन्ति। अथ च तैस्तत्त्वैः (सत्यामाशिरम्) सत्यकारणभूतान् क्षीरादिरसान् (अवर्धत) वर्धयन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top