Loading...
ऋग्वेद मण्डल - 9 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 75/ मन्त्र 1
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥

    स्वर सहित पद पाठ

    अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । चनः॑ऽहितः । नामा॑नि । य॒ह्वः । अधि॑ । येषु॑ । वर्ध॑ते । आ । सूर्य॑स्य । बृ॒ह॒तः । बृ॒हन् । अधि॑ । रथ॑म् । विष्व॑ञ्चम् । अ॒रु॒ह॒त् । वि॒ऽच॒क्ष॒णः ॥


    स्वर रहित मन्त्र

    अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥

    स्वर रहित पद पाठ

    अभि । प्रियाणि । पवते । चनःऽहितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । अरुहत् । विऽचक्षणः ॥ ९.७५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 75; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 33; मन्त्र » 1

    पदार्थः -
    (विचक्षणः) स सर्वज्ञः परमात्मा (विष्वञ्चम्) विविधविधमिमं संसारं (रथम्) रम्यं कृत्वा (अध्यरुहत्) सर्वोपरि विराजते। स परमात्मा (बृहन्) महानस्ति। तथा (बृहतः सूर्यस्य) अस्य महतः सूर्यस्याभितः (आ) व्याप्नोति। अथ च (चनोहितः) सर्वहितकारकः (अभिप्रियाणि) सर्वेषां कल्याणं कुर्वन् (पवते) पवित्रयति। तथा (यह्वः) महतो महान् (येषु नामानि) येष्वनन्तानि नामानि सन्ति स जगदीश्वरः (अधिवर्धते) अधिकतया वृद्धिं प्राप्नोति ॥१॥

    इस भाष्य को एडिट करें
    Top