ऋग्वेद - मण्डल 9/ सूक्त 75/ मन्त्र 4
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचि॑: । रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥
स्वर सहित पद पाठअद्रि॑ऽभिः । सु॒तः । म॒तिऽभिः । चनः॑ऽहितः । प्र॒ऽरो॒चय॑न् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ । रोमा॑णि । अव्या॑ । स॒मया॑ । वि । धा॒व॒ति॒ । मधोः॑ । धारा॑ । पिन्व॑माना । दि॒वेऽदि॑वे ॥
स्वर रहित मन्त्र
अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचि: । रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥
स्वर रहित पद पाठअद्रिऽभिः । सुतः । मतिऽभिः । चनःऽहितः । प्रऽरोचयन् । रोदसी इति । मातरा । शुचिः । रोमाणि । अव्या । समया । वि । धावति । मधोः । धारा । पिन्वमाना । दिवेऽदिवे ॥ ९.७५.४
ऋग्वेद - मण्डल » 9; सूक्त » 75; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 33; मन्त्र » 4
अष्टक » 7; अध्याय » 2; वर्ग » 33; मन्त्र » 4
पदार्थः -
(रोदसी मातरा) अस्य संसारस्य मातृवत् पितृवत् वर्तमानौ द्युलोक-भूलोकौ तौ (प्ररोचयन्) प्रकाशयन् (च) अथ च (मतिभिः अद्रिभिः) ज्ञानरूपचित्तवृत्तिभिः (सुतः) संस्कृतस्तथा (चनोहितः) सर्वहितकारी (शुचिः) शुद्धस्वरूपः परमेश्वरः (समया) सर्वतः (रोमाण्यव्या) निखिलपदार्थान् रक्षयन् (विधावति) विशेषरूपेण गच्छति। (दिवेदिवे) अहरहः (मधोः धारा) अमृतवर्षणेन (पिन्वमाना) पुष्णाति ॥४॥