Loading...
ऋग्वेद मण्डल - 9 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 80/ मन्त्र 1
    ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ । बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥

    स्वर सहित पद पाठ

    सोम॑स्य । धारा॑ । प॒व॒ते॒ । नृ॒ऽचक्ष॑सः । ऋ॒तेन॑ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि॑ । बृह॒स्पतेः॑ । र॒वथे॑न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः॑ । न । सव॑नानि । वि॒व्य॒चुः॒ ॥


    स्वर रहित मन्त्र

    सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि । बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥

    स्वर रहित पद पाठ

    सोमस्य । धारा । पवते । नृऽचक्षसः । ऋतेन । देवान् । हवते । दिवः । परि । बृहस्पतेः । रवथेन । वि । दिद्युते । समुद्रासः । न । सवनानि । विव्यचुः ॥ ९.८०.१

    ऋग्वेद - मण्डल » 9; सूक्त » 80; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 5; मन्त्र » 1

    पदार्थः -
    (नृचक्षसः) परमात्मन उपासकान् (सोमस्य) सर्वोत्पादकस्य परमेश्वरस्य (धारा) आमोदमयी वृष्टिः (पवते) पुनाति। अथ च (दिवः देवान्) ज्ञानेप्सून् विद्वज्जनान् (ऋतेन) सत्येन (परि) परितः (पवते) परमात्मा पवित्रयति (बृहस्पतेः) वाक्पतिं विद्वांसं जगदीश्वरः (रवथेन) शब्दद्वारा (विदिद्युते) प्रकाशयति (न) यथा (समुद्रासः) अन्तरिक्षलोकाः (सवनानि) यज्ञानां (विव्यचुः) विस्तारं कुर्वन्ति। तथा शाब्दिका विद्वांसः परमात्मन ऐश्वर्यं तन्वते ॥१॥

    इस भाष्य को एडिट करें
    Top