ऋग्वेद - मण्डल 9/ सूक्त 90/ मन्त्र 1
प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् । इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥
स्वर सहित पद पाठप्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद॑स्योः । रथः॑ । न । वाज॑म् । स॒नि॒ष्यन् । चया॒सी॒त् । इन्द्र॑म् । गच्छ॑न् । आयु॑धा । स॒म्ऽशिशा॑नः । विश्वा॑ । वसु॒ । हस्त॑योः । आ॒ऽदधा॑नः ॥
स्वर रहित मन्त्र
प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् । इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥
स्वर रहित पद पाठप्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिष्यन् । चयासीत् । इन्द्रम् । गच्छन् । आयुधा । सम्ऽशिशानः । विश्वा । वसु । हस्तयोः । आऽदधानः ॥ ९.९०.१
ऋग्वेद - मण्डल » 9; सूक्त » 90; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 26; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 26; मन्त्र » 1
पदार्थः -
(हिन्वानः) शुभकर्म्मणि प्रेरयन् (रोदस्योः, जनिता) द्युलोकं पृथिवीलोकञ्चोत्पादयन् (रथः, न) गतिशीलविद्युदादिपदार्था इव (वाजं) बलं (सनिष्यन्) ददन् (अयासीत्) आगत्य त्वं मम हृदये विराजस्व। हे परमात्मन् ! त्वं (आयुधा) बलप्रदशस्त्राणि (संशिशानः) सन्धुक्षयन् (इन्द्रं, गच्छन्) कर्म्मयोगिनं प्राप्नुवन् (विश्वा, वसु) सर्वप्रकाराण्यैश्वर्य्याणि (हस्तयोः) करयोः (आदधानः) धारयन् (प्र, अयासीत्) मत्साम्मुख्यमागच्छ ॥१॥