Loading...
ऋग्वेद मण्डल - 9 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 92/ मन्त्र 1
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः । आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑न॒: प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥

    स्वर सहित पद पाठ

    परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः । आप॒त् । श्ल्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥


    स्वर रहित मन्त्र

    परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः । आपच्छ्लोकमिन्द्रियं पूयमान: प्रति देवाँ अजुषत प्रयोभिः ॥

    स्वर रहित पद पाठ

    परि । सुवानः । हरिः । अंशुः । पवित्रे । रथः । न । सर्जि । सनये । हियानः । आपत् । श्ल्लोकम् । इन्द्रियम् । पूयमानः । प्रति । देवान् । अजुषत । प्रयःऽभिः ॥ ९.९२.१

    ऋग्वेद - मण्डल » 9; सूक्त » 92; मन्त्र » 1
    अष्टक » 7; अध्याय » 4; वर्ग » 2; मन्त्र » 1

    पदार्थः -
    (सुवानः) सर्वव्यापकः (हरिः) हरणशीलः (अंशुः) अश्नुते सर्वत्रेत्यंशुः। सूत्रात्मा परमात्मा (पवित्रे) विशुद्धान्तःकरणे (रथः, न) गतिशीलपदार्था इव (परि, सर्जि) साक्षात्क्रियते, यः परमात्मा (सनये) उपासनार्थं (हियानः) प्रेरयति जनानिति शेषः, यः परमात्मा (इन्द्रियं) कर्मयोगिनं (श्लोकं) शब्दसमुदायं (आपत्) जनयति पुनश्च कीदृशः स परमात्मा (पूयमानः) सर्वपावकः (प्रयोभिः) निजैराशीर्वादैः (देवान्, प्रति) देवेभ्यः विद्वद्भ्य इत्यर्थः (अजुषत) स्नेहमुत्पादयति ॥१॥

    इस भाष्य को एडिट करें
    Top