ऋग्वेद - मण्डल 9/ सूक्त 94/ मन्त्र 5
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योति॑: कृणुहि॒ मत्सि॑ दे॒वान् । विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥
स्वर सहित पद पाठइष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् । विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥
स्वर रहित मन्त्र
इषमूर्जमभ्य१र्षाश्वं गामुरु ज्योति: कृणुहि मत्सि देवान् । विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥
स्वर रहित पद पाठइषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् । विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥ ९.९४.५
ऋग्वेद - मण्डल » 9; सूक्त » 94; मन्त्र » 5
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 5
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 5
पदार्थः -
(इषं) ऐश्वर्यं (ऊर्जं) बलञ्च (अभि, अर्ष) भवान्ददातु (अश्वं) क्रियाशक्तिं (गां) ज्ञानशक्तिञ्च इमे द्वे अपि (उरु, ज्योतिः) विस्तृतज्योतिषौ (कृणुहि) करोतु (देवान्) विदुषः (मत्सि) तर्पयतु (विश्वानि, हि, सुषहा) सर्वसहनशीलशक्तयो भवत्सु विद्यन्ते (तानि) ताः शक्तयः त्वा भूषयन्ति। (पवमान) हे सर्वपावक ! (तुभ्यं) त्वत्तः इदं प्रार्थये यत्त्वं (शत्रून्) अन्यायकारिणां (बाधसे) निवृत्तौ समर्थः (सोम) हे परमात्मन् ! भवान् अस्मास्वपि एवंविधं बलं ददातु ॥५॥ इति चतुर्नवतितमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥