अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 54
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
स्वर सहित पद पाठइ॒षीका॑म् । जर॑तीम् । इ॒ष्ट्वा । ति॒ल्पिञ्ज॑म् । दण्ड॑नम् । न॒डम् । तम् । इन्द्र॑: । इ॒ध्मम् । कृ॒त्वा । य॒मस्य॑ । अ॒ग्निम् । नि॒:ऽआद॑धौ ॥२.५४॥
स्वर रहित मन्त्र
इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्। तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥
स्वर रहित पद पाठइषीकाम् । जरतीम् । इष्ट्वा । तिल्पिञ्जम् । दण्डनम् । नडम् । तम् । इन्द्र: । इध्मम् । कृत्वा । यमस्य । अग्निम् । नि:ऽआदधौ ॥२.५४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 54
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५४−(इषीकाम्) ईष गतौ हिंसने च−ईकन्, टाप्। प्राप्तव्यां−वेदवाणीम् (जरतीम्) जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। जीवतेरतृन्। पा० ३।२।१०४। जॄ स्तुतौ−अतृन्=अत्, ङीप्। स्तुत्याम् (इष्ट्वा) यज्ञे दाने। दत्त्वा (तिल्पिञ्जम्) तिल गतौ स्निग्धीभावे च−क्विप्+पिजि हिंसाबलादाननिकेतनेषु−अच्। मतेः प्रयत्नस्य निवासम् (दण्डनम्) दण्डपातव्यवहारम् (नडम्) नल बन्धे−अच्, लस्य डः। प्रबन्धम् (तम्) प्रसिद्धम् (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (इध्मम्) प्रकाशमानम् (कृत्वा) (यमस्य) न्यायाधीशस्य (अग्निम्) प्रतापम् (निरादधौ) निश्चयेन सम्यक् स्थापितवान् ॥
इस भाष्य को एडिट करें