अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॑होरा॒त्रेनासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्रे इति॑ । नासि॑के॒ इति॑ । दिति॑: । च॒ । अदि॑ति: । च॒ । शी॒र्ष॒क॒पा॒ले इति॑ शी॒र्ष॒ऽक॒पा॒ले । स॒म्ऽव॒त्स॒र: । शिर॑: ॥१८.४॥
स्वर रहित मन्त्र
अहोरात्रेनासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥
स्वर रहित पद पाठअहोरात्रे इति । नासिके इति । दिति: । च । अदिति: । च । शीर्षकपाले इति शीर्षऽकपाले । सम्ऽवत्सर: । शिर: ॥१८.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अहोरात्रे) रात्रिदिने (नासिके) नासाच्छिद्रे (दितिः)खण्डिता विकृतिः। विनश्वरा सृष्टिः (च) (अदितिः) अखण्डिता विनाशरहिता प्रकृतिः।जगत्सामग्री (शीर्षकपाले) शिरोऽस्थिनी (संवत्सरः) सवत्सरज्ञानमित्यर्थः ॥
इस भाष्य को एडिट करें